Monday, February 7, 2011

सरस्वती स्तोत्रम्

सरस्वती मया दृष्टा वीणापुस्तकधारिणी । हंसवाहनसंयुक्ता विधादानं करोतु मे ॥१॥

प्रथमं भारती नाम द्धितीयं च सरस्वती । तृतीयं शारदादेवी चतुर्थ हंसवाहनी ॥२॥

पंचम तु जगन्माता षष्टम् वागीश्वरी तथा । सप्तमं चैव कौमारी अष्टम् वरदायिनी ॥३॥

नवमं वद्धिदात्री च दशमं वह्मचारिणी । एकादशं चन्द्रघन्टा द्धादशं भुवनेश्वरी ॥४॥

द्धादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नर । जिह्वाग्रे वसति तस्य वह्मरुपा सरस्वती ॥५॥


No comments:

Post a Comment

http://www.facebook.com/prameshwor.sapkota